11 मुखी हनुमान कवच | एकादश मुखी हनुमान कवच | Ekadash Mukhi Hanuman Kavach
“एकादशमुखहनुमत्कवचम्” लोपामुद्रोवाच कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥१॥ दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥२॥ इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥३॥ अगस्त्य उवाच नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं शृणु सुन्दरि सादरम् ॥४॥ सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं … Read more